________________
૧૯૭
ઉપદેશપદ : ભાગ-૧
अथ कर्मजाबुद्धिज्ञातानिकम्मयबुद्धीएवि हु, हेरण्णियमातिया तदब्भासा । पगरिसमुति तीसे, तत्तो णेयम्मि लहु सिद्धी ॥१२१॥
कर्मबुद्धावपि ज्ञातान्युच्यन्ते । तत्र च–'हेरनियमाइया' इति, हैरण्यिकादयः सौवर्णिकप्रभृतयः कारवः किमित्याह-तदभ्यासात् सुवर्णघटनादिकर्मणां पुनःपुनरनुशीलनात् प्रकर्षमतिशयमुपयान्ति प्रतिपद्यन्ते । तस्याः प्रस्तुतबुद्धेस्ततः प्रकर्षाज्ज्ञेये सुवर्णादौ लघु झटित्येव सिद्धिः सुवर्णघटनादिगोचरा तेषां संपद्यत इति ॥१२१॥
હવે કર્મજા બુદ્ધિના ઉદાહરણો કહેવાય છે.
ગાથાર્થ– કર્મબુદ્ધિને વિશે પણ સુવર્ણકારાદિના ઉદાહરણો છે. કાર્યના અભ્યાસથી નિપુણતા પ્રાપ્ત થાય છે. કર્મબુદ્ધિથી સુવર્ણાદિ શેય પદાર્થોમાં જલદી સિદ્ધિ થાય છે. (૧૨૧)
કર્મબુદ્ધિમાં પણ ઉદાહરણો કહેવાય છે, અને તેમાં સુવર્ણકાર વગેરે કારીગરોના ઉદાહરણો છે. સોનું ઘડવા આદિના કાર્યના વારંવારના અભ્યાસથી તેમાં કુશળતા પ્રાપ્ત થાય છે. તેથી કર્મજા બુદ્ધિથી સુવર્ણને ઘડવા આદિ વિષયવાળી સિદ્ધિ જલદીથી પ્રાપ્ત થાય છે. (૧૨૧)
एतदेव भावयितुमाहहेरण्णिओ हिरण्णं, अब्भासाओ णिसिंपि जाणेइ । एमेव करिसगोवि हु, बीयक्खेवाति परिसुद्धं ॥१२२॥
हैरण्यिकः हिरण्यपण्यप्रधानो वणिग् 'हिरण्यं' दीनारादिरूपकरूपं 'अभ्यासात्' पुनःपुनरनुशीलनान्निश्यपि रात्रावपि जानाति, यथेदं सुवर्णं पलादिप्रमाणं च वर्तते । 'एमेव' त्ति एवमेव 'करिसगोवि हु' त्ति कर्षकोऽपि कृषीवललोकः बीजक्षेपादि बीजक्षेपं मुद्गादिबीजवपनरूपम्, आदिशब्दात् क्षेत्रगुणान्, तुल्यान्तरतया च बीजनिपातमूर्ध्वमुखमधोमुखं पार्था जानाति, कीदृशमित्याह-परिशुद्धमविसंवादि, अभ्यासादेव । अत्र चेदमुदाहरणम्-क्वचिन्नगरे केनचिद् म्लेच्छाचारिणा मलिम्लुचेन कस्यचिद् द्रविणपतेर्वेश्मनि रात्रौ क्षात्रमष्टपत्रपद्माकारं पातितम् । निष्कृष्टश्चार्थसारः । प्रभाते च स्वकर्मणा विस्मयमागतः । स च शुचिशरीरः कृतशिष्टलोकोचितनेपथ्यश्च तद्देशमागतो जनवादं श्रोतुमारब्धः-'अहो कुशलता धृष्टता च चौरस्य, य इत्थं प्राणसंकटस्थानप्रविष्टोऽपि व्युत्पत्तिमान् वर्त्तते । प्रहृष्टश्चासावतीव । समागतश्चात्रान्तराले कर्षकः स्कन्धारोपितकर्षणोचितकुशीयूपादिसामग्रीकस्तद्दर्शनार्थम् । दृष्ट्वा चोक्तमनेन,