________________
ઉપદેશપદ : ભાગ-૧
૧૫ गोणे णेत्तुद्धरणं, घोडगजीहाइ पडणमो उवरि । मंदमई ववहारे, रिउत्ति मंतिस्स अणुकंपा ॥१२०॥
'गोणे' त्ति गोणो घोडगपडणं च रक्खाओ इति द्वारपरामर्शः । तत्र क्वचिद् ग्रामे केनचिन्मन्दभाग्येन निर्वाहोपायान्तरमन्यदलभमानेन मित्राद् याचितैर्बलीवलं वाहयितुमारब्धम् । विकाले च तेनानीयैते गावो मित्रस्य संबन्धिनि गोवाटके प्रक्षिप्ताः । तच्च मित्रं तदा जेमितुमारब्धम् । लज्जया चासौ नोपसर्पितः दृष्टाश्च तेन ते वाटके क्षिप्यमाणाः । अकृततप्तयश्च निर्गतास्ते । ततो हृताश्चौरः, गृहीतश्च मन्दभाग्यो मित्रेण यथा-समर्पय मे बलीवॉन् । असमर्पयमाणश्च राजकुले नेतुमारब्धो यावत्तावत् प्रतिपथेन तुरङ्गमारूढ एकः पुरुषः समागच्छति । स च कथंचित्तुरगेण भूमौ पातितः । __पलायमानश्च तुरग आहत आहतेति तदुक्ते तेन मन्दभाग्येन कशादिना ताडितः क्वचिन्मर्मणि । मृतश्च तत्क्षणादेव, गृहीतश्च तुरङ्गस्वामिनाऽप्यसौ । संपन्नश्च गच्छतामेव विकालः । उषिताश्च नगरबहिरेव । तत्र च केचिन्नटा आवसिताः सन्ति, सुप्ताश्च ते सर्वेऽपि। चिन्तितं च तेन रात्रौ मम नास्ति जीवतो मोक्ष इति वरं आत्मा उद्बद्धः । इति परिभाव्य दण्डिखण्डेन वटवृक्षशाखायां आत्मा उल्लम्बितः । सा च दण्डिर्बला झटित्येव त्रुटिता। पतितेन च तेन नटमहत्तरको मारितः । तैरप्यसौ गृहीतः नीतिकरणे । कथितं च यथावृत्तं तैः।पृष्टोऽसावमात्येन ।प्रतिपन्नश्च सर्वम् । ततो मन्त्रिणा निष्प्रतिभोऽयमिति महतीमनुकम्पां तं प्रति कुर्वता प्रस्तुतबुद्धिप्रभावान्न्यायो दृष्टः; यथा-'नेत्तुद्धरण' इति, बलीवईविषये नेत्रोद्धरणंलोचनोत्पाटः कर्त्तव्यः । अयमभिप्राय:-बलीवर्दस्वामी मन्दभाग्यश्च भणितौ मन्त्रिणा, यथा-द्वावपि भवन्तावपराधिनौ ।तत एकस्य बलीवर्दान् वाटके प्रक्षिप्यमाणान् दृष्टवतो नेत्रोत्पाटनम, द्वितीयस्य च वाचा बलीवनसमर्पितवतो बलीवर्दप्रदानं दण्ड इति। घोडगजीहाइ' इति-अनेन घोटको दातव्यः । घोटकस्वामिनश्च घोटकमाहताहतेति भणितवतो जिह्वाया छेदो दण्डः । 'पडणमो उवरि' त्ति नटमहत्तरकश्च तथा कश्चित् दण्डिखण्डेनात्मानमुद्ध्य पतनमस्योपरि करोतु ।एवं मन्दभाग्यो व्यवहारे प्रवृत्ते ऋजुरिति कृत्वा मन्त्रिणोऽनुकम्पा संपन्ना, न पुनरसौ दण्डित इति ॥१२०॥
॥समाप्तानि वैनयिकीबुद्धिज्ञातानि ॥ ouथार्थ- मो , नेत्रनुं आयपुं, घोडानु भ२९l, its ५२थी ५:पुं, मंहमति, व्यqsl२, ४, भंत्रीनी अनुपा. (१२०)