________________
उपद्वेशप: : भाग-1
'भिक्खुम्मिवि एवंचिय'त्ति भिक्षाविति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि • भिक्षुणा कस्यचित्पुरुषस्य संबन्धिनो न्यासस्यापह्नवः कृत इत्यर्थः । ततस्तेन वञ्चितपुरुषेण 'भुयंग' इति भुजङ्गानां द्यूतकारिणां निवेदितं यथाऽयं रक्तपटो मदीयं निक्षेपकमपलप्य स्थित इति । ततस्तैस्तस्योपरि कृपां कुर्वाणैराद्यबुद्धिसहायैः 'तव्वेसनास' त्ति तस्य भिक्षोर्वेषं कृत्वा रक्तपटैर्भूत्वेत्यर्थः, तस्यैव भिक्षोः समीपे गमनं कृतम् । भणितश्चासौ यथा, - वयं तीर्थवन्दनार्थं गमिष्याम इत्येनमस्मदीयं सुवर्णं निक्षेपकं गृहाण । प्रत्यागतानामस्माकमर्पयेस्त्वमिति । एवं च तेन यावदर्पयितुमारब्धा न चार्पयन्ति तावत्तेन वञ्चितपुरुषेण तत्संकेतितेनैवावान्तरे समागत्य 'जायणया' इति याचनं कृतं स्वकीयनिक्षेपकस्य, यथा— मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय भो भो भिक्षो ! । ततस्तेन यद्यहमेतस्य न्यासं न ढौकयिष्यामि तदा एते न समर्पयिष्यन्ति मम स्वकीयनिक्षेपकान् वञ्चकं मां मन्यमानाः, इति तत्क्षणादेव समर्पितः । द्यूतकारभिक्षुभिरपि मिषान्तरं कृत्वा नार्पिता निक्षेपका इति । अत्रैव मतान्तरम्, अन्ये ब्रुवते - यथा कश्चिच्छाक्यभिक्षुः क्वचित् संनिवेशे संध्याकाले मार्गश्रान्तः सन् 'अवाउडवसही' इति अव्यापृतानां दिगम्बराणां वसतौ मठरूपायां रात्रिवासायोपस्थितः । तत्र च प्रागेव भिक्षुदर्शनं प्रति संपन्नमत्सरैस्तदुपासकैः सकपाटं सदीपं चापवरकमेकं प्रवेशितः 'खरिचीवरदाह उड्डाहो' इति, ततो मुहूर्त्तान्तरे शयनीयस्थस्य तस्य खरी द्व्यक्षरिका प्रवेशिता, द्वारं च स्थगितम् । ततः परिभावितं च तेन 'नूनमेते मामुड्डाहयितुमिच्छन्ति । ततो " भावानुरूपफलभाज: सर्वे जीवा' इत्येतेष्वेव पतत्ववसाय इति विमृश्य प्रज्वलत्प्रदीपशिखानलेन दग्धानि सर्वाण्यपि चीवराणि, अवलम्बितं च नाग्न्यम्, दैवाच्च प्राप्ताऽपवरकमध्य एव पिच्छिका । प्रभाते च दिगम्बरवेषधारी गृहीत्वा दक्षिणकरेण खरिकां यावन्निर्गन्तुमारब्धस्तावन्मीलितस्तैः सर्वोऽपि तत्संनिवेशलोकः । भणितं च तेनोद्धुरकन्धरेणोच्चस्वरेण च भूत्वा - ' यादृशोऽहं तादृशाः सर्वेऽप्येते' इति भिक्षोरौत्पत्तिकी बुद्धिरिति ॥ १०० ॥
૧૫૦
गाथार्थ - भिक्षुने विषे पाए। आा ४ उधाहरण छे. धूतअर तेनो वेश, न्यास भूवी, यायना, अन्य खायार्यो उहे छे- हिगंजरोनो मह, हासीनो प्रवेश, वस्त्रनुं जाणवु, उड्डार (१००)
‘ભિક્ષુ’ એ પ્રમાણે દ્વાર પરામર્શ છે. આ પ્રમાણે પૂર્વના ઉદાહરણની જેમ કોઇક ભિક્ષુએ કોઇક પ્રકારની થાપણને હરણ કરી. ઠગાયેલા પુરુષે જૂગારીઓને જણાવ્યું કે આ રક્તપટે (બૌદ્ધ સાધુએ) મારી થાપણને અપલાપ કરી છે. પછી તેઓ તેના ઉપર કૃપા કરતા ઔત્પત્તિકી બુદ્ધિની સહાયથી તે ભિક્ષુનો વેશ ધારણ કરી તેની પાસે ગયા અને કહ્યુંઃ અમે તીર્થને વંદન કરવા જઇએ છીએ એટલે અમારી સુવર્ણની આટલી થાપણ તમે રાખો. અમો પાછા આવીએ ત્યારે તારે અમને પાછી આપવી. એટલામાં જ્યારે તેઓએ થાપણ આપવા શરૂઆત કરી તેટલામાં પૂર્વે ઠગાયેલ