________________
७७
ઉપદેશપદ : ભાગ-૧
इत्थं शिष्यविषयमुपदेशमभिधाय साम्प्रतं तमेव गुरुगोचरमाहगुरुणावि सुत्तदाणं, विहिणा जोग्गाण चेव कायव्वं । सुत्ताणुसारओ खलु, सिद्धायरिया इहाहरणं ॥२९॥
गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थाभिधानः स्वपरतन्त्रवेदी पराशयवेदकः परहितनिरतो यतिविशेषो गुरुः, तेनापि, न केवलं शिष्येण, विधिना विनयेन च सूत्रं ग्रहीतव्यमित्यपिशब्दार्थः, 'सूत्रदानं 'श्रुतरत्नवितरणं 'विधिना' 'सुत्तत्थो खल पढमो' इत्यादिना आवश्यकनियुक्ति निरूपितेन क्रमेण, 'जोग्गाण चेव' त्ति योग्यानामेव विनयावनामादि-गुणभाजनत्वेनोचितानामेव कर्त्तव्यं, न पुनरयोग्यानामपि । यथोक्तम्"विणओणएहिं पंजलिउडेहिं छंदमणुवत्तमाणेहिं । आराहिओ गुरुजणो, सुर्य बहुविहं लहुंदेइ ॥१॥" तथा, "उवहियजोगहव्वो, देसे काले परेण विणएण ।चित्तण्णूअणुकूलो, सीसो सम्मंसुयं लहइ ॥२॥"कथमित्याह-'सूत्रानुसारतः' सूत्रस्य व्यवहारभाष्यस्यानुसारोऽनुर्त्तनं तस्मात् । 'खलुरवधारणे । ततः सूत्रानुसारादेव तदतिक्रमेण सूत्रदाने तद्वेषित्वमेव कृतं स्यात् । यथोक्तम्-"तत्कारी स्यात् स नियमात्, तद्वेषी चेति यो जडः । आगमार्थे तमुल्लङ्घय, तत एव प्रवर्त्तते ॥१॥ आगमात्सर्व एवायं, व्यवहारो व्यवस्थितः । तत्रापि हाठिको यस्तु, हन्ताज्ञानां स शेखरः ॥२॥" सूत्रानुसारश्चायम्"तिवरिसपरियागस्स उ, आचारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं, सूयगडं नाम अंगं ति ॥१॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव। ठाणं समवाओ च्चिय, दो अंगे अट्ठवासस्स॥२॥ दसवासस्स विवाहो, एक्कारसवासयस्स उ इमे उ । खुल्लियविमाणमाई, अज्झयणा पंच नायव्वा ॥३॥ बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुयाइया चउरो ॥४॥ चोहसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥५॥ सोलसवासाईसुयएगुत्तरवड्डिएसु जहसंखं ।चारणभावणमहसुविणभावणा तेयगनिसग्गा ॥६॥ एगूणवासगस्स उ, दिट्ठीवाओ दुवालसममंगं । संपुन्नवीसवरिसो, अणुवाई सव्वसुत्तस्स ॥७॥"इति । श्रमणीस्तु प्रतीत्याऽकालचारित्वादिपरिहारलक्षणः सूत्रानुसारः। अकालचारित्वलक्षणं चेदम्-"अट्ठमीपक्खिए मोत्तुं, वायणाकालमेव उ । सेसकालमइंतीओ, नायव्वाऽकालचारीओं ॥१॥"सिद्धाचार्याः सिद्धाभिधानसूरय इह' सूत्रानुसारतः सूत्रदाने, आह्रियते आक्षिप्यते प्रतीतिपथेऽवतार्यते दार्टान्तिकोऽर्थो येन तदाहरणं दृष्टान्तः ॥२९॥