________________
ષોડશક પ્રકરણ - ૪ सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत् स्फुरणम् । अविचार्य कार्यतत्त्वं, तच्चिद्रं क्रोधकण्डूतेः ॥१३॥
:विवरणम् : 'न च पापा क्रोधकण्डूति'रित्युक्तं, तस्याश्चिह्नमाह-सत्येत्यादि ।
सत्यदोषश्रुतिभावादसत्यदोषश्रुतिभावाच्च अन्तर्बहिश्च-अभ्यन्तरपरिणाममाश्रित्यान्तः, बहिर्गताऽप्रसन्नताद्याकारद्वारेण बहिश्च यत्स्फुरणं-व्यावृद्धिश्चलनं वा अविचार्य-अनालोच्य कार्यतत्त्वं-कार्यपरमार्थं तत् चिह्न-लक्षणं क्रोधकण्डूते:क्रोधकण्ड्वाः ॥१३॥
: योगदीपिका : अथ क्रोधकण्डूति चिह्नद्वारा लक्षयति-सत्येत्यादि ।
सत्येतरदोषाणां - यथास्थितासद्भूतापराधानां श्रुतिभावाद् अन्तःप्रज्वलनद्वारा बहिश्चाप्रसन्नताव्यञ्जकाऽऽकारद्वारा यत्स्फुरणं-वृद्धिश्चलनं वा अविचार्य-अनालोच्य कार्यतत्त्वं-स्वात्मनोऽत्यन्ताहितं दुर्गतिविपाकलक्षणं क्रोधकार्यपरिणामं, तत् चिह्न लक्षणं क्रोधकण्डूते:-क्रोधकण्ड्वाः ॥१३॥
एते पापविकारा, न प्रभवन्त्यस्य धीमतः सततम् । धर्मामृतप्रभावाद्, भवन्ति मैत्र्यादयश्च गुणाः ॥१४॥
:विवरणम् : एवमेते विषयतृष्णादयो व्यतिरेकमुखेनोक्ताः, तदभावमुपदर्शयन् मैत्र्यादिगुणसम्भवमाह-एत इत्यादि।
एते पापविकारा:-पूर्वोक्ता न प्रभवन्ति-न जायन्ते अस्य-पुरुषस्य धीमतोबुद्धिमतः सततम्-अनवरतं, धर्मामृतप्रभावात्-धर्म एवामृतं तत्प्रभावाद्, भवन्ति-सम्पद्यन्ते मैत्र्यादयश्च गुणा-वक्ष्यमाणस्वरूपाः ॥१४॥
: योगदीपिका : निगमयति एत इत्यादि।
આ ચાર પાપવિકારોનો નાશ થયા પછી ધર્મપ્રાપ્તિવાળા બુદ્ધિમાન આત્માના જીવનમાં મૈત્રાદિ ચાર ગુણો પ્રગટ થાય છે. પાપવિષના નાશક ધર્મરૂપી અમૃતના પ્રભાવે ધર્મતત્ત્વનાં લિંગરૂપે મૈત્યાદિ ચાર ગુણો પ્રાપ્ત થાય છે. અર્થાતુ એ ધર્માત્મા મૈત્યાદિ ચાર ભાવનાઓનો અભ્યાસ કરે છે. મૈત્રી વગેરે ચાર ધર્મસિદ્ધિના અભ્યાસરૂપ લિંગ છે. ૧૪ .
મૈત્રાદિ ભાવનાઓનું સ્વરૂપ (१) भैत्री : 400 वोन तिनो विया२ ४२वो त मैत्री भावना.