SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (४ ) ષોડશક પ્રકરણ - ૩ एते पूर्वोक्ताः सर्वेऽपि कथञ्चित् क्रियारूपत्वेऽपि तत्त्वतः परमार्थतस्तदुपलक्ष्या आशयभेदा अवगन्तव्याः । अयं पञ्चप्रकारोऽप्याशयो भाव उच्यते, उपयोगस्य भावनालक्षणत्वाद् अनेन भावेन विना चेष्टा कायवाङ्मनोव्यापाररूपा तुच्छा द्रव्यक्रियात्वेन फलाजननीत्यर्थः ॥१२॥ अस्माच्च सानुबन्धाच्छुद्ध्यन्तोऽवाप्यते द्रुतं क्रमशः । एतदिह धर्मतत्त्वं, परमो योगो विमुक्तिरसः ॥१३॥ :विवरणम् : कस्मात्पुनर्द्रव्यक्रियायास्तुच्छत्वापादनेन भावप्राधान्यमाश्रीयत इत्याह-अस्मादित्यादि। अस्माच्च-पूर्वोक्ताद्भावादाशयपञ्चकरूपात्सानुबन्धात् अनुबन्धः-सन्तानस्तेन सह वर्त्तते यो भावः स सानुबन्धस्तदविनाभूतः स चाव्यवच्छिन्नसन्तानः, तस्मादेवंविधाद् भावात् शुद्धेरन्तःप्रकर्षः शुद्धयन्तोऽवाप्यते-प्राप्यते द्रुतम्-अविलम्बितं, प्रभूतकालात्ययविगमेन, क्रमश:- क्रमेणानुपूर्व्या तस्मिन् जन्मन्यपरस्मिन् वा कर्मक्षयप्रकर्षों लभ्यते। ननु चैष एव भावो धर्मपरमार्थ आहोस्विदन्यद्धर्मतत्त्वमित्यारेकायां परस्य निर्वचनमाहएतदिह धर्मतत्त्वम्, अत्र यद्यपि भावस्य प्रस्तुतत्वादेतदित्यत्र पुंलिङ्गतायामेष इति निर्देशः प्राप्नोति तथापि धर्मतत्त्वमित्यस्य पदस्य प्राधान्यापेक्षया नपुंसकनिर्देशः, अर्थस्तु-एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं, नान्यत्, 'परमो योग' इति अयं भावः परमो योगो वर्त्तते, स च कीदृक् ?- विमुक्तिरसः विशिष्टा मुक्तिविमुक्तिस्तद्विषयो रसः-प्रीतिविशेषो यस्मिन् योगे स विमुक्तिरसः, विमुक्तौ रसोऽस्येति वा गमकत्वात्समासः, अथवा पृथगेव पदान्तरं, न विशेषणं, तेनायं भावो विमुक्तौ रस:-प्रीतिविशेषो विमुक्तिरस उच्यते, एतदुक्तं भवति भाव एव धर्मतत्वं, भाव एव च परमो योगो, भाव एव च विमुक्तिरस इति ॥१३॥ : योगदीपिका : भावाच्च यत् स्यात्तदाह - अस्माच्चेति । अस्माच्च आशयपञ्चकरूपाद् भावात्, सानुबन्धाद्-अव्यवच्छिन्नसन्तानात् क्रमशः क्रमेण तस्मिन् जन्मन्यपरस्मिन् वा द्रुतम्अविलम्बितं शुद्धः कर्मक्षयस्यानाकर्वोऽवाप्यते । एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं પ્રશ્નઃ ભાવથી જ શુદ્ધિ થાય છે; એમ તમે કહ્યું પણ એ ભાવનો અભિલાષ કઈ રીતે શક્ય છે. અનાદિ અનંત ભૂતકાળમાં જીવે વારંવાર મોટે ભાગે પાપો જ સેવ્યાં છે. માટે જીવને પાપ ઉપર જ બહુમાન ભાવ વધુ છે.એનો ત્યાગ કરીને શુભભાવને જ ઇચ્છે અને પાપને બહુમહત્ત્વ ન આપે એ શી રીતે બને? ઉત્તર : અનંત ભૂતકાળથી કુભોજન, સાદાં ભોજન, ચાલુ ભોજનના રસાસ્વાદથી ટેવાયેલા
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy