________________
થોડાક પ્રકરણ - ૧૬
एते प्रवचनतः खलु, समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥१६॥
:विवरणम् : कुतः पुनरेते भावा भवताऽभिहिताः? किमर्थं वेत्याह-एत इत्यादि ।
एते-प्रस्तुताः प्रवचनतः-प्रशस्तं प्रगतमवगाढं वा वचनं प्रवचनं प्रकृष्टं वचनं शेषागमापेक्षया, प्रवचनं सूत्रतोऽर्थतश्च द्वादशाङ्गं तस्मात् । खलु शब्दो वाक्यालङ्कारे, एकीभावेनाविप्रतिपत्त्या उद्धृताः- पृथग् व्यवस्थापिता मन्दमतीनां-मन्दधियां हितार्थं तुहितप्रयोजनमेव आत्मनोऽनुस्मरणायच-स्वयमेवानुस्मृतिनिमित्तं च भावाः-पदार्थाः, आदित आरभ्य भवविरह:-संसारविरहो मोक्षस्तस्य सिद्धि:-निष्पत्तिः सैव फलं येषां भावानां ते भवविरहसिद्धिफलाः ॥१६॥
॥इति समरसापत्त्यधिकारः ॥
: योगदीपिका : अथैते भावा कुतोऽभिहिताः किमर्थं वेत्याह-एत इत्यादि ।
एते-प्रस्तुता भावाः प्रवचनतो-द्वादशाङ्गात्, खलुशब्दो वाक्यालङ्कारे समुद्धता एकवाक्यतया पृथक् स्थापिताः, मन्दमतीनां विस्तृतावगाहनाऽक्षमधियां हितार्थं तु-हितायैव च-पुनः आत्मनोऽनुस्मरणाय । कीदृशा भावाः ? आदित आरभ्य भवविरहो मोक्षस्तस्य सिद्धिनिष्पत्तिः फलं येषां ते तथा ॥१६॥
धर्मश्रवणे यत्नः, सततं कार्यो बहुश्रुतसमीपे। हितकाक्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥१७॥
विवरणम् : इदानीं ग्रन्थकारो गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदर्शयन् स्ववचनप्रार्थनामाहधर्मेत्यादि।
दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्म:-श्रुत-चारित्ररूपस्तस्य श्रवणम्आकर्णनमर्थतस्तस्मिन् धर्मश्रवणे, यत्नः-प्रयत्नः आदरः सततं-अनवरतंकार्य:-कर्तव्यो बहुश्रुतसमीपे-बहुश्रुतसन्निधाने, हितकाक्षिभिः-हिताभिलाषिभिः नृसिंहै:- पुरुषसिंहै: पुरुषोत्तमैरिति यावद्, वचनं-प्रार्थनारूपं नन्विति-वितर्के, एवं वितर्कयत यूयं, हरिभद्रस्येदं हारिभद्रमिदम् एवंविधं यदुत-'बहुश्रुतसमीपे धर्मश्रवणे यत्नो विधेयः'।
અથવા શ્રીહરિભદ્રસૂરિ મહારાજા વિરચિત આ પ્રકરણમાં ગુંથાયેલા ધર્મનું સ્વરૂપ સમજાવતાં વચનો બહુશ્રુત પાસે જ સાંભળવાનો પ્રયત્ન કરવો જોઈએ. અબહુશ્રુત પાસે સાંભળવાથી શ્રી હરિભદ્રસૂરિ મહારાજાનાં વચનોનું રહસ્ય પામી શકાય નહીં. આ રીતની આ છેલ્લી ગાથામાં કોઈ વિદ્વાને શ્રી હરિભદ્રસૂરિ મહારાજાનાં વચનોની સ્તુતિ કરી હોય એવું લાગે છે.