________________
૧૫).
પ્રેડશક પ્રકરણ - ૧૨ एवान्तरं, नापरं महद्, यदि वा तदपि समानपदन्यासयोः साहित्येन बाहुलग्नयोव्रजतो स्तीत्येवम् एककाला प्राप्तव्यनगरादिस्थानप्राप्तिर्द्वयोरपीति, यथैवमेतयोन्तिरं तथा गुरु-माषतुषकल्पशिष्ययोञ्जन्यज्ञानिनोः फलं प्रति सन्मार्गगमनप्रवृत्तयोर्मार्गपर्यन्तप्राप्तौ मुक्त्यवस्थायां न किञ्चिदन्तरमिति गर्भार्थः ॥४॥ ___ एवं समानफलत्वं ज्ञान्यज्ञानिनोः प्रतिपाद्य दीक्षार्हत्वं विशेषज्ञानासमन्वितस्यापि दर्शयति-यस्येत्यादि।
यस्य विशिष्टज्ञानरहितस्यापि, अस्ति विद्यते सक्रियायां सदाचारे इत्थम् अनेन प्रकारेण सामर्थ्येन समानफलसाधकत्व-रूपेण योग्यताऽविकला-परिपूर्णा गुरुषुधर्माचार्यादिषु भावप्रतिबन्धाद्-भावतः प्रतिबद्धत्वेन हेतुना दीक्षोचित एव-दीक्षायोग्य एव स प्रस्तुतः, किलेत्याप्तागमवादः, यतः संसारविरक्त एवास्या अधिकारी, शेषगुणवैकल्येऽपीत्युक्तम् ॥५॥
: योगदीपिका : ननु यदि ज्ञानिन एव दीक्षा साध्वी तदा कथं प्रागुक्तज्ञानत्रयविकलानां माषतुषादीनां समये सा श्रेयसी श्रूयत इत्याशङ्क्याह-य इत्यादि।
यो निरनुबन्धाद्-व्यवच्छिन्नसन्तानाद्दोषाद्-ज्ञानावरणादेः श्राद्धः-श्रद्धावान् यस्तु सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्म-लक्षणाज्जातभावप्रतिघातः कथञ्चिच्छ्राद्धो भवति स नेह गृह्यते, अनाभोगः सूक्ष्मधीगम्यग्रन्थार्थाऽपरिज्ञानमात्रं स एव यस्यास्ति स अनाभोगवान्, वृजिनात् पापाद् भीरुभवविरक्तत्वाद्, गुरुषु-पूज्येषु भक्तस्तबहुमानित्वाद्, ग्रहः मिथ्याभिनिवेशस्तेन रहितः सोऽपि-य ईदृगुक्तविशेषणवान् ज्ञान्येव-ज्ञानवानेवतत्फलतोज्ञानफलभावात्, ज्ञानेनाऽपि भवविरक्तत्वादिफलं क्रियते तदस्याप्यस्तीतिकृत्वा ॥३॥
फलतुल्यतायामेव दृष्टान्तमाह-चक्षुष्मानित्यादि।
एकः कश्चित्पुरुषो मार्गगमनप्रवृत्तः चक्षुष्मान्-निर्मलानुपहतनेत्रः स्याद् अन्योऽन्धो दृग-विकलस्तस्य चक्षुष्मतो मतं-वचनं तदनुवृत्तिपरः प्रधानो मार्गानुसारिता
એક જ ડગલાનું અંતર પડે અને જો આંધળો આંખવાળાનો ખભો પકડીને એક સાથે ચાલે તો બંને એક સાથે જ ઈચ્છિત નગરે પહોંચે છે. ગર્ભિત અર્થ એ છે કે આ આંખવાળાને અને આંધળાને ઈચ્છિત નગરે પહોંચવામાં આંતરું પડતું નથી તેમ, ગુરુ અને માષતુષ જેવા શિષ્યને કે જે એક જ્ઞાની છે અને બીજો અજ્ઞાની છે, એ બંનેની એક સાથે પ્રયાણની-ગમનની પ્રવૃત્તિ ચાલે છે. તેથી ઈચ્છિત મોક્ષાવસ્થાને પામવામાં આંતરું પડતું નથી. ૪
આ રીતે જ્ઞાની તેમ જ અજ્ઞાનીને મળતું સમાન ફળ બતાવીને હવે બીજી રીતે વિશેષ જ્ઞાન