________________
नमो वीतरागाय रायचन्द्रजैनशास्त्रमालायां
श्रीमदुमास्वातिविरचितं प्रशमरतिप्रकरणम् श्रीहरिभद्रसूरिविरचितटीकाङ्कितं हिन्दीभाषानुवादसहितञ्च ।
टीकाकारस्य मङ्गलाचरणम् 'प्रशमस्थेन येनेयं कृता वैराग्यपद्धतिः।
तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ॥१॥ प्रशमरतिप्रकरणारम्भे मङ्गलाभिधानं विवक्षितप्रकरणार्थस्याप्रत्यूहेन परिसमाप्त्यर्थमित्याहकारिका-नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्चरमदेहाः।
पञ्चनवदश च दशविधधर्मविधिविदो जयन्ति जिनाः ॥१॥
संस्कृत टीका-नाभिः कुलकरः । नाभेरपत्यं नाभेयः ऋषभनामा आदिदेवः, स आद्यो येषां तीर्थकृतां ते नाभेयाद्याः । सिद्धार्थो राजा, तस्य सूनुःर्वर्धमानाख्यः, स चरमः पश्चिमो येषां ते सिद्धार्थराजसूनुचरमाः। चरमः पश्चिमो देहो येषां ते चरमदेहाः । ततः परं संसृतेरभावादन्यशरीरग्रहणासंभवः, कर्माभावात् पञ्चेन्द्रियादिप्राणदशकाभावः, तदभावाच्च शरीराभावः, ततः सांसारिकसुखातीता एकान्तिकात्यन्तिकानतिशया निरावाधस्वाधीनमुक्तिसुखभाजः संवृत्ता इत्यर्थः । कियन्तस्ते पुनः ? इति संख्यां निरूपयति-'पञ्चनवदश च ' इति, कृतद्वन्द्वसमासाः चतुर्विशतिः' इत्यर्थः । अन्ये तु पञ्चादिषु त्रिष्वपि पदेषु प्रथमाबहुवचनं विदधति । 'च' समुच्चये । ' सर्वे च ते शास्तारो भव्यसत्त्वानामुपदेष्टारो धर्मस्य दशविधस्य क्षमादेब्रह्मचर्यावसानस्य ' इत्याह-'दशविधधर्मविधिविदः' इति । विधिः प्रकारः क्षमादिस्तं विदन्तीति । स चोपरिष्टावक्ष्यते- सेव्यः शान्तिार्दव ' इत्यादिना । विदित्वा च केवलज्ञानेनोपदिशन्ति
१ प्रशमस्थितेन प०। र पश्चिमो वर्द्धमानाख्यो-प० पश्चिमाख्यो-मु०।३ तेव्यं प०। ४ विदित्वा के-मु०।