________________
૧૨૩
धर्मणि २ भाग-3 / अध्याय-७ / सूत्र-८ કરણ, મહાકલ્યાણકોમાં ભગવાનની પૂજાનું કરણ, તીર્થકરોની સેવા, સદ્ધર્મ સાંભળવામાં रति, सEL सुणीपj. Il८/४५१।। टी :_ 'तत्र' देवस्थाने 'उत्तमा' प्रकृष्टा 'रूपसंपत्' शरीरसंस्थानलक्षणा १, 'सत्यः' सुन्दरा याः 'स्थितिप्रभावसुखद्युतिलेश्याः' ताभिः 'योगः' समागमः, तत्र 'स्थितिः' पल्योपमसागरोपमप्रमाणायुष्कलक्षणा, 'प्रभावो' निग्रहाऽनुग्रहसामर्थ्यम्, 'सुखं' चित्तसमाधिलक्षणम्, 'द्युतिः' शरीराऽऽभरणादिप्रभा, 'लेश्या' तेजोलेश्यादिका इति २, 'विशुद्धानि' स्वविषयाविपर्यस्तज्ञानजननेन निर्मलानि 'इन्द्रियाणि अवधि'श्च यस्य स तथा, तद्भावस्तत्त्वम् ३, 'प्रकृष्टानि' प्रकर्षवन्ति ‘भोगसाधनानि' भोगोपकरणानि ४, तान्येव दर्शयति – 'दिव्यो' निजप्रभामण्डलविडम्बिताशेषतेजस्विचक्रो 'विमाननिवहः' विमानसंघातः ५, 'मनोहराणि' मनःप्रमोदप्रदानि अशोकचम्पकपुन्नागनागप्रभृतिवनस्पतिसमा-कुलानि 'उद्यानानि' वनानि ६, 'रम्या' रन्तुं योग्याः 'जलाशयाः' वापीह्रदसरोवरलक्षणाः ७, ‘कान्ताः' कान्तिभाजः 'अप्सरसो' देव्यः ८, 'अतिनिपुणाः' परिशुद्धविनयविधिविधायिनः '
किङ्करा' प्रतीतरूपा एव ९, 'प्रगल्भः' प्रौढो 'नाट्यविधिः' तीर्थकरादिचरितप्रतिबद्धाभिनयलक्षणः १०, 'चतुरोदाराः' चतुराः झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्च उत्तमाः ‘भोगाः' शब्दादयः श्रोत्रादीन्द्रियविषयाः ११, 'सदा' सततं 'चित्तालादो' मनःप्रसादरूपः १२, ‘अनेकेषां' स्वव्यतिरिक्तानां देवादीनां तत्तन्नानाविधसमुचित्ताचारसमाचरणचातुर्यगुणेन 'सुखहेतुत्वं' संतोषनिमित्तभावः १३, 'कुशलः' परिणामसुन्दरो 'अनुबन्धः' सर्वकार्याणाम् १४, ‘महाकल्याणकेषु' जिनजन्ममहाव्रतप्रतिपत्त्यादिषु पूजायाः' स्नात्रपुष्पारोपणधूपवासप्रदानादिना प्रकारेण 'करणं' निर्मापणम् १५, 'तीर्थकराणां' निजप्रभावावर्जितजगत्त्रयजन्तुमानसानां अमृतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमनःसंतापानां पुरुषरत्नविशेषाणां 'सेवा' वन्दननमनपर्युपासनपूजनादिनाऽऽराधना १६, 'सतः' पारमार्थिकस्य 'धर्मस्य' श्रुतचारित्रलक्षणस्य 'श्रुतौ' आकर्णने 'रतिः' स्वर्गप्रभवतुम्बुरुप्रभृतिगान्धर्विकारब्धपञ्चमस्वरगीतश्रवणरतेरपि सकाशादधिकसंतोषलक्षणा १७, 'सदा' सर्वकालं 'सुखित्वं' बाह्यशयनाऽऽसनवस्त्राऽलङ्कारादिजनितशरीरसुखयुक्तत्वम् १८ ।।८/४५१।। टोडार्थ :__ 'तत्र' ..... शरीरसुखयुक्तत्वम् १८ ।। त्यi=धन सेवा प्राप्त रायला विस्थानमा, GTH=प्रष्ट, શરીરના સંસ્થાના સ્વરૂપ રૂપસંપત્તિ, (૧) સત્ય સુંદર જે સ્થિતિ પ્રભાવ સુખ વૃતિ અને વેશ્યા, તેનાથી યોગ સમાગમ. ત્યાં સ્થિતિ પલ્યોપમ-સાગરોપમ પ્રમાણ આયુષ્યરૂપ સુંદર સ્થિતિ છે.