________________
७८
ધર્મબિંદુ પ્રકરણ ભાગ-૨ | અધ્યાય-૩ | સૂત્ર-૨૮
सूत्रार्थ :
ઊર્ધ્વ, અધઃ, તિર્યમ્, વ્યતિક્રમ=ઊર્ધ્વદિશાનો વ્યતિક્રમ, અર્ધ્વદિશાનો વ્યતિક્રમ, તિર્યમ્ દિશાનો વ્યતિક્રમ, ક્ષેત્રવૃદ્ધિ પ્રતિજ્ઞા કરાયેલા ક્ષેત્ર કરતાં અધિક ક્ષેત્રમાં ગમન, સ્મૃતિનું અત્તર્ધાન= ગ્રહણ કરાયેલા વતની મર્યાદાની સ્મૃતિનો અભાવ એ પાંચ દિક્પરિમાણ વ્રતના અતિચારો છે. ॥२८/१५१|| टीs:
'ऊर्ध्वाधस्तिर्यग्व्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं' चेति समासः, तत्र ऊर्ध्वाधस्तिर्यक्क्षेत्रव्यतिक्रमलक्षणास्त्रयोऽतिचाराः, एते च आनयने विवक्षितक्षेत्रात् परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे, प्रेषणे वा ततः परेण, उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो 'न कारयामि' इत्येवंविहितदिग्व्रतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति १-२-३। तथा 'क्षेत्रस्य' पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतो 'वृद्धिः' वर्द्धनम्, पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४। तथा कथञ्चिदतिव्याकुलत्वप्रमादित्वमत्यपाटवादिना ‘स्मृतेः' स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धानं भ्रंशः स्मृत्यन्तर्धानमिति ५।
इह वृद्धसंप्रदायः-ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत्पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत् पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमधः कूपादिषु विभाषा, तथा यत् तिर्यक्प्रमाणं गृहीतं तत् त्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्त्तव्या, कथम्?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत् तत् परिमाणम्, ततः परतो भाण्डमघु लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिक्परिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ।।२८/१६१। टीमार्थ :'ऊर्ध्वाधः ..... गृह्यते इति ।। , Il, तिय व्यdिst=Geeiual, क्षेत्री दि माने स्मृति,