SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धर्मसिंधु प्रकरण भाग-२ / अध्याय-3 / सूत्र- २५ भवतो 'हीनाधिकमानोन्माने' ४ । शुद्धेन व्रीह्यादिना घृतादिना वा 'प्रतिरूपकं' सदृशं पलञ्ज्यादि वसादि वा द्रव्यं तेन 'व्यवहारो' विक्रयरूपः स 'प्रतिरूपकव्यवहार' इति ५ । इह स्तेनप्रयोगो यद्यपि 'चौर्यं न करोमि न कारयामि' इत्येवंप्रतिपन्नव्रतस्य भङ्ग एव तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि वो भक्तकादि नास्ति तदाऽहं ददामि, भवदानीतमोषस्य च यदि विक्रायको न विद्यते तदाऽहं विक्रेष्यामि' इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्ष - स्यासावतिचारः १ । तथा स्तेनाहृतं काणकक्रयेण लोभदोषात् प्रच्छन्नं गृणंश्चौरो भवति, यदाह "चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । ५५ - अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ।।१११।।” [] ततश्चौर्यकरणाद् व्रतभङ्गः, 'वाणिज्यमेव मया विधीयते, न चौरिका'इत्यध्यवसायेन च व्रतानपेक्षत्वाभावाद् न भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः २ । विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य "सामी जीवादत्तं तित्थयरेणं तहेव य गुरूहिं" [नवपदप्रक० ३८] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वाद् भङ्ग एव तथापि विरुद्धराज्यातिक्रमं कुर्वता 'मया वाणिज्यमेव कृतम् न चौर्यम्' इति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति ३ | तथा हीनाधिकमानोन्मानव्यवहारः प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं 'क्षत्रखननादिकमेव चौर्यम्, कूटतुलादिव्यवहारतत्प्रतिरूपव्यवहारौ तु वणिक्कलैव' इति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति ४-५ । ***** अथवा स्तेनप्रयोगादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रमव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते इति । न चैते राजसेवकादीनां न संभवन्ति, तथाहि - आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमयं कारयति तदा राज्ञोऽप्यतिचाराः स्युरिति । । २५ / १५८ ।। टीडार्थ : स्तेनप्रयोगश्च स्युरिति । योरने नवी वस्तु लाववा भाटे व्यापारवानी डवो से स्तेनप्रयोग
SR No.022100
Book TitleDharmbindu Prakaran Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages382
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy