________________
ઉ૧
धर्मा र लाग-२ | अध्याय-3 | सूत्र-२४ अवतरशि:
अथ द्वितीयस्य - अवतरशिक्षार्थ :હવે ઉપદેશક વ્રત સ્વીકારનાર શ્રાવકને બીજા અણુવ્રતના અતિચાર બતાવે છે –
सूत्र :
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारस्वदारमन्त्रभेदाः ।।२४/१५७।। सूत्रार्थ :મિથ્યા ઉપદેશ, રહસ્યનું અભ્યાખ્યાન, કૂટલેખ યિા, થાપણનો અપહાર, સ્વદારાનો મંત્રભેદ બીજા અણુવ્રતના અતિચારો છે. ll૧૪/૧૫૭ll टीs:
मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रभेदश्चेति समासः । तत्र 'मिथ्योपदेशो' नाम अलीकवादविषय उपदेशः-'इदमेवं चैवं च ब्रूहि' इत्यादिकमसत्याभिधानशिक्षणम् १। 'रहस्याभ्याख्यानं' रहः एकान्तस्तत्र भवं 'रहस्यं' रहोनिमित्तं तच्च 'तदभ्याख्यानं' चेति समासः, एतदुक्तं भवति-रहसि मन्त्रयमाणानवलोक्याभिधत्ते ‘एते हि इदं चेदं च राजादिविरुद्धं मन्त्रयन्ते' इति २। 'कूटलेखस्य' असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया' ३। 'न्यासापहार' इति, 'न्यासः' परगृहे रूपकादेनिक्षेपः, तस्य 'अपहारः' अपलापः ४। 'स्वदारमन्त्रभेद' इति, 'स्वदाराणाम्' उपलक्षणत्वान्मित्रादीनां च ‘मन्त्रस्य' गुप्तभाषितस्य 'भेदो' बहिः प्रकाशनम् इति ५। अत्र च मिथ्योपदेशो यद्यपि 'मृषा न वादयामि' इत्यत्र, 'न वदामि न वादयामि'इत्यत्र वा व्रते भङ्ग एव, 'न वदामि' इति व्रतान्तरे तु न किञ्चन, तथापि सहसाकाराऽनाभोगाभ्यामतिक्रमव्यतिक्रमाऽतिचारैर्वा मृषावादे परप्रवर्त्तनव्रतस्यातिचारोऽयम्, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयम्, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भग्नाभग्नरूपत्वाद् व्रतस्येति ।
ननु रहस्याभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद् भङ्ग एव, न त्वतिचार इति, सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान