________________
४४
धर्मनिह प्ररश भाग-२| मध्याय-3 / सूत्र-१८
अवतरशिs:
तथा - અવતરણિતાર્થ :
શ્રાવકનાં અણુવ્રતો અને ગુણવ્રતો બતાવ્યા પછી ઉપદેશક શ્રાવકને શિક્ષાવ્રતનું સ્વરૂપ બતાવે છે तको समस्यय 'तथा'थी छ - सूत्र:
सामायिकदेशावकाशपोषधोपवासाऽतिथिसंविभागश्चत्वारि शिक्षापदानि ।।१८/१५१।। सूत्रार्थ :
સામાયિક, દેશઅવકાશ, પૌષધોપવાસ, અતિથિસંવિભાગ ચાર શિક્ષાપદો છે=સાધુધર્મના અભ્યાસનાં સ્થાનો છે. II૧૮/૧૫૧II टोs:
'समानां' मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणाम् ‘आयो' लाभः 'समस्य' वा रागद्वेषान्तरालवर्तितया मध्यस्थस्य सतः 'आयः' सम्यग्दर्शनादिलक्षणः समायः, ‘साम्नो' वा सर्वजीवमैत्रीभावलक्षणस्य 'आयः' सामायः, सर्वत्र स्वार्थिकेकण्प्रत्ययोपादानात् 'सामायिकं' सावद्ययोगपरिहारनिरवद्ययोगानुष्ठानरूपो जीवपरिणामः । 'देशे' विभागे प्राक्प्रतिपन्नदिग्व्रतस्य योजनशतादिपरिमाणरूपस्य 'अवकाशो' गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया तत् तथा, पोषं धत्ते 'पोषधः' अष्टमी-चतुर्दश्यादिः पर्वदिवसः, 'उपे'ति सह अपवृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तम् - “अपवृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम् ।।१०७।।" [ब्रह्मप्रकरणे २४१] इति । ततः पोषधेषूपवासः ‘पोषधोपवासः' । 'अतिथयो' वीतरागधर्मस्थाः साधवः साध्व्यः श्रावकाः श्राविकाश्च, तेषां न्यायागतकल्पनीयादिविशेषणानामनपानादीनां संगतवृत्त्या 'विभजनं' वितरणं 'अतिथिसंविभागः,' तथा च उमास्वातिवाचकविरचितश्रावकप्रज्ञप्तिसूत्रं यथा-"अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्च, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानाऽऽसनदानपादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधाऽऽलयादिप्रदानेन संविभागः कार्यः" [ ] इति, 'ततः'