________________
અષ્ટક પ્રકરણ
૨૯૫
૨૭-તીર્થંકરદાનસફળતા સિદ્ધિ અષ્ટક
_वृत्तिः- शुभं प्रशस्तमाशयं चित्तं कर्तुं शीलमस्येति 'शुभाशयकरम्', 'हि' इति यस्मादेवं तस्माद्धर्माङ्गता दानस्येति प्रकृतम्, ‘एतत्' इति दानम्, तथा 'आग्रहच्छेदकारि च' वित्तं प्रति ममकारलक्षणाभिनिवेशनाशकर्तृ च, 'चशब्दः' समुच्चये, तथा सन् शोभनोऽभ्युदयान्तरानुबन्धित्वेन योऽभ्युदयः कल्याणावाप्तिस्तस्य साराङ्गं प्रधानकारणं 'सदभ्युदयसाराङ्गम्, आह च- "दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥१॥" तथा अनुकम्पाया दयायाः सकाशात् प्रसूतिः प्रभवो यस्य तत् 'अनुकम्पाप्रसूति', 'चशब्दः' समुच्चय इति ॥४॥
हान धनुं ॥२४॥ छ ४. डेथी
શ્લોકાર્થ– દાન શુભાશયને ઉત્પન્ન કરે છે, આગ્રહનો નાશ કરે છે, અનુબંધયુક્ત કલ્યાણની પ્રાપ્તિનું પ્રધાન કારણ છે, અનુકંપાથી ઉત્પન્ન થાય છે, તેથી ધર્મનું કારણ છે. (૪)
टीडा- शुम शयनेशुम चित्तने. આગ્રહનો નાશ કરે છે=ધનની મમતારૂપ આગ્રહનો નાશ કરે છે, અર્થાતુ ધનની મમતાનો નાશ કરે છે.
દાન અનુબંધયુક્ત કલ્યાણની પ્રાપ્તિનું પ્રધાન કારણ છે. કહ્યું છે કે “જ્યાં જ્યાં ઉત્પન્ન થાય છે ત્યાં ત્યાં દાનથી ભોગોને પામે છે. શીલથી ભોગોને પામે છે અને સ્વર્ગમાં તથા મોક્ષમાં જાય છે.” (૪)
यतिनाप्यौचित्येन दानं देयमिति ज्ञापकेन समर्थयन्नाहज्ञापकं चात्र भगवान्, निष्क्रान्तोऽपि द्विजन्मने । देवदूष्यं ददद्धीमा-ननुकम्पाविशेषतः ॥५॥
वृत्तिः- 'ज्ञापकं च' उदाहरणं पुनः चशब्दस्य पुनरर्थत्वात्, 'अत्र' अनुकम्पया दाने, 'भगवान्' वर्धमानस्वामी, किम्भूतो 'निष्क्रान्तोऽपि' प्रव्रज्याप्रतिपत्त्या गृहवासान्निर्गतोऽपि, आस्तामनिर्गतः, 'द्विजन्मने' ब्राह्मणाय, 'देवदूष्यं' देवांशुकम्, 'ददत्' प्रयच्छन्, 'धीमान्' ज्ञानचतुष्टययोगान्महाप्रज्ञः, अनेन च "ज्ञानवदासेवितमालम्बनीयं भवति' इत्यावेदितम्, कुतो दददित्याह- ‘अनुकम्पाविशेषतः' दयातिशयादिति, उदाहरणप्रयोगश्चैवम्- यतेरप्यवस्थाविशेषे असंयताय दानमदुष्टम्, अनुकम्पानिमित्तत्वात्, यदनुकम्यानिमित्तं तदुष्टं निष्क्रान्तस्य भगवतो द्विजन्मदानवत्, अनुकम्पानिमित्तं च यतेरसंयतदानम्, तस्मात् तदुष्टमिति, अथवा 'ज्ञापकं' हेतुरित्यर्थः, तत्र चैवं प्रयोगः- यद्भगवदासेवितं तद्यतीनां सेवनीयं शीलमिव, आसेवितं च भगवता असंयतदानमिति । श्रूयते च- "किल भगवान्महावीरो महामेघ इवानवरतवसुधाराभिः प्रहतपटुपटहकनादगर्जितध्वनिना निर्विभागं संवत्सरं यावद्दानवर्षेण विगतवित्तवाञ्छापिपासासन्तापं तर्षुकलोकचातककुटुम्बकं कृत्वा अमरनरनायकनिकरानुगम्यमानो ज्ञातखण्डवनमुपागत्य परित्यक्तसकलसङ्गः प्रव्रज्यां प्रतिपन्नवान् । अत्र चावसरे भगवत्पितृवयस्यो ब्राह्मणो देशान्तरसरणपरिक्षीणशरीरकः स्वकीयनिकेतनमागतो भार्यया चाभिहितः यदुत भगवान्निखिलभूतलमापूर्णमनोरथं वरवरिकावितरणतो विधायानगारितां गतः । भवांस्तु निर्भाग्यतया अर्थार्थी देशान्तराण्यनुसरति, ततस्त्वरितं गत्वा