SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૧૯૪ ૧૬-નિત્યાનિત્યપક્ષમંડન અષ્ટક ॥१६॥ अथ षोडशं नित्यानित्यपक्षमण्डनाष्टकम् ॥ यद्येकान्तेन नित्येऽनित्ये वाऽऽत्मनि हिंसादयो न घटन्ते तर्हि क्व घटन्त इत्यत आहनित्यानित्ये तथा देहाद, भिन्नाभिन्ने च तत्त्वतः । घटन्त आत्मनि न्याया-द्धिसादीन्यविरोधतः ॥१॥ वृत्तिः- नित्यश्चासावनित्येश्चेति नित्यानित्यः, तत्र 'नित्यानित्ये' 'आत्मनि' अम्युपगम्यमाने, हिंसादीनि घटन्त इति सम्बन्धः । न हि एकान्तेन नित्यमनित्यं वा वस्तु किमपि कस्यापि कार्यस्य करणक्षमम्, तथाहि- मृत्पिण्डस्य कार्यं घटो न भवति, एकरूपत्वेनानतिक्रान्तमृत्पिण्डभावत्वात्, मृत्पिण्डवत्, मृत्पिण्डत्वातिक्रमे चानित्यत्वप्राप्तेः, तथा मृत्पिण्डस्य कार्यं घटो न भवति, सर्वथैवानुगमाभावेनानतिक्रान्तमृत्पिण्डत्वलक्षणपर्यायत्वात्, पटवत्, मृत्पिण्डत्वलक्षणपर्यायातिक्रमाभ्युपगमे चानुयायित्वेन नित्यानित्यत्वं वस्तुनः स्यादिति । आह च-"घटः कार्यं न पिण्डस्य, पिण्डभावानतिक्रमात् । पिण्डवत्पटवच्चेति, स्यात् क्षयित्वादिरन्यथा ॥१॥" तदेवं नित्यानित्यमेव वस्तु कार्यकरणक्षममिति । ननु नित्यानित्यत्वधर्मयोविरुद्धत्वात्कथमेकाधिकरणत्वम् । अत्रोच्यते- यथा ज्ञानस्य भ्रान्तत्वाधान्तत्वे परमार्थसंव्यवहारापेक्षया न विरुद्धे एवं द्रव्यतो नित्यत्वं पर्यायतश्चानित्यत्वं न विरुद्धम्, न च द्रव्यपर्याययोः परस्परं भेदः, यतः यदेव वस्त्वनपेक्षितविशिष्टरूपं द्रव्यमिति व्यपदिश्यते तदेवापेक्षितविशिष्टरूपं पर्याय इति । 'तथा' इति वाक्यान्तरोपक्षेपार्थः, 'देहात्' शरीरात्, किमित्याह- ‘भिन्नः' व्यतिरिक्तः स चासावभिन्नश्चाव्यतिरेकी 'भिन्नाभिन्नस्तत्र,' भिन्नाभिन्न एव च जीवः शरीरात्, तथैवोपलभ्यमानत्वात् । तथाहि- जीवस्यामूर्तत्वाद्देहस्य च मूर्तत्वान्मूर्तामूर्तयोश्चात्यन्तविलक्षणत्वादभेदस्तयोः, देहस्य स्पर्शने च जीवस्य वेदनोत्पत्तेरभेदश्चेति, ॥ आह च- "जीवसरीराणं पि हु, भेयाभेओ तहोवलम्भाओ। मुत्तामुत्तत्तणओ, छिक्कंमि य वेयणाओ या ॥१॥" सर्वथा भेदे हि शरीरकृतकर्मणो भवान्तरेऽनुभवानुपपत्तिः 'स्यात्' अभेदे च परलोकहानिः शरीरनाशे जीवनाशादिति । 'चशब्दः' अनुक्तसमुच्चये । ततश्च सदसती इत्याद्यपि द्रष्टव्यम् । आह च- 'संतस्स सरूवेणं, पररूवेणं तहा असंतस्स । हंदि विसिट्ठत्तणओ, होंति विसिट्ठा सुहाईया ॥१॥" विशिष्टाः प्रतिप्राणिवेद्याः । 'तत्त्वत' इति परमार्थतो नित्यानित्यादौ, न पुनः कल्पनया, पारमार्थिकत्वं च नित्यानित्यत्वादीनां दर्शितमेव । 'घटन्ते' युज्यन्ते । 'आत्मनि' जीवे । 'न्यायात्' परिणामिस्वरूपस्यात्मनोऽपरापरपर्यायसंपदुपपत्तिलक्षणया नीत्या । 'हिंसादीनि' आश्रवसंवरबन्धमोक्षसुखादीनि । कथमित्याह- 'अविरोधतः' अविरोधेन, एकान्तपक्षे ये हिंसादिष्वभ्युपगम्यमानेषु विरोधा दर्शितास्तत्परिहारेणेति भाव इति ॥१॥ સોળમું નિત્યાનિત્યપક્ષમંડન અષ્ટક (આત્માને એકાંતે નિત્ય કે એકાંતે અનિત્ય તથા સર્વગત માનવાથી હિંસા આદિની તાત્ત્વિક ઉપપત્તિ થતી ९३. जीवशरीरयोरपि खलु भेदाभेदस्तथोपलम्भात् । मूर्तामूर्त्तत्वतः स्पर्शे च वेदनातश्च ॥१॥ ९४. सतः स्वरूपेण पररूपेण तथाऽसतः हंदि । विशिष्टत्वाद्भवन्ति विशिष्टाः सुखादिकाः ।।१।।
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy