SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ १०७ ૭-પ્રચ્છન્નભોજન અષ્ટક અથવા (प्रस्तुत भटनी पक्षी यामi) "Y४(५) आहोना त्यामाटे" ह्यु छ. ही આદિ શબ્દથી લીધેલા યાચકને અપ્રીતિ થાય વગેરે દોષોનું પ્રતિપાદન કરવા માટે કહે છે આ શ્લોકાર્થ– ભોજન ન આપવામાં દીન આદિને અવશ્ય અપ્રીતિ ઉત્પન્ન થાય અને તેનાથી તેને શાસન 6५२ द्वेष उत्पन्न याय. तनाथी दुतिनी ५२५२॥ स य. (५) ટીકાર્થ– દાનમાં પુન્યબંધ થાય અને દીન આદિને ભાત વગેરે ન આપવામાં અપ્રીતિ ઉત્પન્ન થાય. તેના કારણે તેને જ શાસન (=અપ્ત પ્રવચન) ઉપર દ્વેષ થાય. તેનાથી દીન આદિને નરક, તિર્યંચગતિ, કુમનુષ્યત્વ, કુદેવત્વરૂપ દુર્ગતિઓની પરંપરા સર્જાય.(૫). यदि नाम मिथ्यात्वोपहतबुद्धेस्तस्य स्वदोषादप्रीत्यादयः संजायन्ते ततः किमस्माकमसंक्लेशवन्मानसानामित्याशङ्क्याह, अथवा पुण्यादिपरिहारार्थमिहादिशब्दोपात्तपापबन्धप्रदर्शनायाह निमित्तभावतस्तस्य, सत्युपाये प्रमादतः । शास्त्रार्थबाधनेनेह, पापबन्ध उदाहृतः ॥६॥ वृत्तिः- 'शास्त्रार्थबाधनेन पापबन्धस्तस्योदाहृत' इति सम्बन्धः, शास्त्रार्थबाधनमेव कुत इत्याह'निमित्तभावतो' दीनाद्यप्रीतिशासनद्वेषकुगतिसन्ततीनां कारणत्वेन परेषामप्रीत्यादिवर्जनं हि शास्त्रार्थः, 'तस्य' इति प्रकटभोजकयतेः, नन्वेवं महामुनीनामपि पापबन्धप्रसइस्तेषामपि महामिथ्यात्वोपहतेष्वप्रीत्यादिनिमित्तत्वादित्याशङ्क्याह- 'सति' विद्यमाने, उपाये प्रच्छन्नभोजनलक्षणे दीनाद्यप्रीत्याद्युत्पत्तिपरिहारस्य हेतौ, महामुनीनां पराप्रीतिपरिहारोपायाभावे तत्परिहारार्थं च प्रयत्ने सति परिणामविशुद्धः पापबन्धाभाव इति, नन्वेवं हठाद्दीनादिना भुञ्जानस्य साधोर्दर्शने उक्तदोषप्रसङ्ग इत्यत आह- प्रमादतः प्रमादेनालस्योपहततया, अप्रमत्तस्य पुनरप्रीत्यादिहेतुत्वेऽपि शास्त्रार्थाबाधनान्नास्ति पापबन्योऽहिंसकस्येव । यदाह-"आया चेव अहिंसा, आया हिंसत्ति निच्छओ एस । जो होइ अप्पमत्तो अहिंसओ, हिंसओ इयरो ॥१॥" शास्त्रार्थस्याप्तागमार्थस्य बाधनमन्यथाकरणं शास्त्रार्थबाधनं तेन हेतुना, महानर्थनिबन्धनं हि शास्त्रार्थबाधनम् । यदाह-"यः शास्त्रविधिमुत्सृज्य, वर्तते कामचारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१॥" शास्त्रं च पराप्रीतिपरिहारप्रयत्नप्रतिपादनपरमेव व्यवस्थितम् । तद्यथा- "अणुमित्तो वि न कस्सइ, बंधो परवत्युपच्चया भणिओ । तहवि हु जयंति जइणो, परिणामविसोहिमिच्छंता ॥१॥" तथा "इय सव्वेणवि सम्मं, सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिन्ता उ ५९॥२॥" 'इह' इति प्रकटभोजने, 'पापबन्धो' ऽशुभकर्मोपादानम्, 'उदाहृतोऽभिहितस्तत्त्ववेदिभिरिति ॥६॥ ५७. आत्मा चैवाहिंसात्मा हिंसेति निश्चय एषः ।। यो भवति अप्रमत्तोऽहिंसको हिंसक इतरः ॥१॥ ५८. अणुमात्रोऽपि न कस्यचिद् बन्यः परवस्तुप्रत्ययाणितः । तथापि खलु यतन्ते यतयः परिणामविशुद्धिमिच्छन्तः ॥१॥ ५९. इति सर्वेणापि सर्वं शक्यं अप्रीतिकं सदा जनस्य । नियमात् परिहर्तव्यं इतरस्मिन् स्वतत्त्वचिन्ता तु ॥२॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy