SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૧-મહાદેવ અષ્ટક गत्वापि अप्राप्ततदन्तः पातालवज्राग्निना च गन्तुमशक्तस्तत्संतापादेव च कृष्णीभूतशरीरः प्रतिनिवृत्त्य महादेवान्तिकमाजगाम निवेदितवांश्च यथा नास्ति भवल्लिङ्गस्यान्त इति । ब्रह्मा तू(प्यु) परिष्टात्तथैव गतोऽप्राप्ततदन्तश्च निर्विण्णो लिङ्गमस्तकानिपतन्तीं मालामासादितवान्, तां चासौ पप्रच्छ, कुतो भवतीति । तयोक्तम्, महेश्वरलिङ्गमस्तकात् । कियांश्च ते कालस्ततः समागच्छन्त्याः । तयोक्तं षण्मासाः । ततो ब्रह्मणोक्तम्, अहं लिङ्गान्तोपलम्भाय प्रस्थितः किं तु भवत्या यो मार्गः षड्भिर्मासैरतिक्रान्तस्तस्यातिबहुत्वान्निविण्णोऽहं निवर्तिष्ये, ततो महादेवपृष्टया त्वया साक्ष्यं दातव्यम् । तयापि प्रतिपन्नम् । ततस्तां गृहीत्वा शम्भुसमीपमाजगाम, समागत्य चोक्तवान्, लब्धो मया लिङ्गान्तः, एषा च सम्प्रत्ययार्थं ततो माला मयाऽऽनीता । ततः पृष्टाऽसौ । तयाप्युक्तम्, एव(सर्व) मेतत् । ततोऽनन्तमपि मल्लिङ्ग सान्तं व्यवस्थापयत एतावित्यसद्भूतभाषणकुपितेन शम्भुना कनिष्ठिकानखकुठारेण ब्रह्मणो गर्दभशिरो लून, माला त्वस्पृश्यतया शपितेति ॥ हरिदृशि सरुगित्येतदेवं श्रूयते-किल दुर्वासा महर्षिसर्वशी कामितवान् । तया चासावुक्तः, यद्यपूर्वेण यानेन त्वं स्वर्गे समागच्छसि ततोऽहं भवन्तमिच्छामि । तेन च प्रतिपन्नमेतत् । गतवांश्चासौ वासुदेवसमीपम् । कृता च तेन तस्य प्रतिपत्तिः । पृष्टश्च तेनागमनकारणम् । उक्तं च तेन स्वर्गेऽहं गन्तुमिच्छामि, ततो भवता सभार्येण गोरूपधारिणा रथारूढोऽहं स्वर्गे नेतव्यो, न च गच्छता पश्चाद्भागो निरूपणीयः। प्रतिपन्नं च तद्भक्तिभयाभ्यां वासुदेवेन । नेतुं च प्रवृत्तः । ततः स्त्रीत्वात्तथाविधगमनशक्तिविकलां लक्ष्मी प्राजनकदण्डेन मुनिः पुनः पुनः प्रणुनोद । तच्च स्नेहादसहमानेन वासुदेवेन तदभिमुखं निभालितम् । तेन च प्रतिपन्नवैतथ्यकारित्वात्कुपितेन वासुदेवो लोचने प्राजनकदण्डेन प्रणोदितः । इत्येवं हरिर्लोचने सरोगः संवृत्त इति ॥ अन्ये त्वाहुः- किलैकदा वासुदेवः सरित्तटे तपस्यति स्म । तत्र च तापसी काचित् स्नाति स्म । तेन च तस्या निरावरणाया अङ्गेषु सकामा दृष्टिनिवेशिता । तयापि लक्षितोऽसौ । ततः शापेन सरोगलोचनः कृत इति। व्यालुप्तशिश्नो हर इत्येतत्पुनरेवम्-किल दारुवनाभिधाने तपोवने तापसाः परिवसन्ति स्म । तदुटजेषु च भिक्षार्थं महेश्वरो गृहीतसमस्तस्वकीयालङ्कारो घण्टाटङ्कारतुम्बरुझङ्काररवमुखरितदिक्चक्रवाल: समागच्छति (स्म) । तापसीच स्वदर्शनजनितकामविकाराः परिभुङ्क्ते स्म । ततोऽन्यदा ऋषिभिर्विज्ञातव्यतिकरैः कोपातिरेकाच्छापेन तल्लिङ्गस्य छेदः कृतः । तत्र निखिलजनानां तच्छेदोऽभवताजानुत्पत्तिश्च । ततो देवैरकाल एव संहारो मा भूदिति तापसाः प्रसादिताः । ते च लिङ्गं तथैव चक्रुरुक्तवन्तश्चेदम्-पूर्वकाले सदा स्तब्धमासीद, इतस्तु भोगार्थित्व एव स्तव्धीभविष्यतीति । ततो जना अपि लिङ्गवन्तो जाताः प्रजोत्पत्तिथेति । सूर्योऽप्युल्लिखित इत्येतदेवम्-किल सूर्यस्य रलादेवी नाम भार्याऽऽसीत् । तस्याश्च यमाभिधानः पुत्रोऽभूत् । सा च आदित्यतापमसहमाना स्वकीयस्थाने स्वप्रतिच्छायां व्यवस्थाप्य समुद्रतटे गत्वा वडवारूपेण तिष्ठति स्म । प्रतिच्छाया च शनैश्चरभद्राभिधाने अपत्ये जनितवती । अन्यदा यमेन बहिस्तादागतेन भोजनं याचिता प्रतिच्छाया, सा तु तन्न दत्तवती । ततः कोपात्तेन पार्ष्णिप्रहारेण प्रहता। तया च तत्पादः शापेन क्षयीकृतः । तेन च पितुस्तन्निवेदितम् । सोऽप्यचिन्तयत्, कथं स्वमातैवं करोति । ततो नूनं नेयमस्य
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy