________________
१६
अथ आचारोपनिषद चण्डरुद्रसूरेः शिष्यो, माषतुषमुनिस्तथा । कैवल्यं यदवापैतद्, भावतथाकृतेः फलम् ।।६।।
न हि मोहनिकाराय, तथाकारसमौषधम् । स्मर्त्तव्यमाष्टकं चात्र, हारिभद्रमिदं वचः ॥ ७ ॥
न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतव्यं हि, तदनुत्कर्षसाधनम् ॥ ८ ॥
(उपजाति) मिथ्यात्वसङ्गो ह्यतथाकृतेस्स्यान्, मोहस्य पोषः सुगुणस्य शोषः । अतो महामववदेतदस्तु, 'ह्याज्ञा गुरुणामविचारणीया' ।।९।।