________________
अथ आचारोपनिषद्
१. इच्छाकारः इच्छया कुर्विदमिति, रालिकाद्या दिशन्ति यत् । इच्छाकारेण तत् कुर्या-दितीच्छाकार उच्यते ।। १ ।।
इच्छाकारो द्वयोर्युक्तो ह्यभ्यर्थनाविधानयोः । आज्ञाऽऽराधनमेवं स्यात्, सम्प्रदायाऽऽदरस्तथा ॥२॥
इच्छाकारप्रयोगात् स्या- दुच्चगोत्रसमर्जनम् । अभियोगनिमित्तस्य, कर्मणश्चापि सङ्क्षयः ।। ३ ।।
परपीडालवस्यापि, परिहारं निरीक्ष्य च । बहुमन्येत लोकोऽपि, ह्यहो श्रीजिनशासनम् ।। ४ ।।
अभ्यर्थितेन वैफल्यं, नेया नेच्छाकृतिस्तथा । शक्त्यभावे वदेद्धेतु-पूर्वकमसमर्थताम् ।। ५ ।।