________________
श्रामण्योपनिषद्
(परिशिष्ट-१) પ્રશમરતિ ગ્રંથમાં શ્રમણધર્મ નિરૂપણ કર્તા - વાચકમુખ્ય શ્રી ઉમાસ્વાતિ મહારાજા
सेव्यः क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ । सत्यतपो ब्रह्माकिञ्चन्यानीत्येष धर्मविधिः ॥१६७॥ धर्मस्य दया मूलं न चाक्षमावान् दयां समादत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥१६८॥ विनयायत्ताश्च गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन्मार्दवमखिलं स सर्वगुणभाक्त्वमाप्नोति ॥१६९॥ नाऽनार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो मोक्षात्परमं सुखं नान्यत् ॥१७०॥ यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद्भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥१७१॥ पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१७२॥ बान्धवधनेन्द्रियसुखत्यागात्त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहङ्कारममकारः ॥१७३॥