________________
४८
श्रामण्योपनिषद् (शार्दूलविक्रीडितम्) यस्यां स्त्री प्रतिभासते शवनिभा, गीता विलापा इव, भासन्ते विषया विषं सुमधुरं, भोज्यं च विष्टाधमम् । अब्रह्मेति वचोऽपि थूत्कृतमहो !, यस्यां प्रसूतेतरां, ब्रह्मोत्कृष्टदशा हि सा मनसि मे,
यातु प्रतिष्ठां पराम् ॥१०॥
इति चरमतीर्थपति-करुणासागरश्रीमहावीरस्वामिशासने नडियादमण्डनश्रीऋषभ-अजितनाथप्रासादसान्निध्ये वि.सं. २०६६ प्रथम-वैशाखशुक्लत्रयोदश्याम् तपागच्छीयाचार्यदेवश्रीमद्विजयप्रेम-भुवनभानु
पद्म-हेमचन्द्रसूरीश्वरशिष्यआचार्यविजयकल्याणबोधिसूरिसंस्तुता श्रमणशतकापराभिधाना
श्रामण्योपनिषद्