________________
श्रामण्योपनिषद्
इत्युपाधिपरिशुद्धं, नवगुप्तिसुगुप्तकम् । सम्यक् चर्यं ब्रह्मचर्यं शिवसञ्चरदीपकम् ॥४॥
४६
,
॥ युग्मम् ॥
रसना करणग्रामे, मनोगुप्तिश्च गुप्तिषु । व्रतेषु ब्रह्मचर्यं च दुर्धरं विनिदर्शितम् ॥५॥
विश्वंभराभरः सूह्यः, सूह्यः शिलोच्चयोच्चयः । दुरुह्यो ब्रह्मभारस्तु, धुर्याणामपि दुर्वहः ॥ ६ ॥
मोक्षो यस्य फलं जन्म - जरामरणवर्जितः । परमानन्दरूपस्तद्, दुष्करं किमिहाद्भुतम् ? ॥७॥
ये कान्तकलहाः सेर्ष्याः, पिशुना नव नारदाः । तेऽप्यहो! यान्ति यन् मुक्तिं, तत्र ब्रह्मैव कारणम् ॥८ ॥
देवदानवगन्धर्वा, रक्षोयक्षाः सकिन्नराः । ब्रह्मचरान् नमस्यन्ति, दुश्चरं ये चरन्ति तत् १ ॥९॥
१. उत्तराध्ययने ॥ १६-१६॥