________________
४४
श्रामण्योपनिषद् __ (वसन्ततिलका) इत्थं ह्यकिञ्चनमुनिः परभावमुक्तः,
सर्वत्र सर्वविधया समभावयुक्तः । पारम्यपूर्णपदतन्मयतां दधानः,
स्वं भावमेकमुपयात्यनुभूतिमात्रम् ॥१०॥
॥ ब्रह्म॥
ब्रह्मपर्यायरूपाय, मदनोन्मादमृत्यवे । नमः श्रीस्थूलभद्राय, शीलसौभाग्यमूर्तये ॥१॥
त्रिविधा त्रिविधा या स्याद्, विरतिर्दिव्यमैथुनात् । औदारिकादपि दैवं, ब्रह्माष्टादशभेदकम् ॥२॥
वसतिर्विष्टरं वार्ता, भित्त्यन्तरं च दर्शनम् । पूर्वक्रीडाऽधिकाहारः, प्रणीतं विभूषा तथा ॥३॥