________________
४२
श्रामण्योपनिषद् ततः स्यात्संयमत्यागो, दोषा भारादिकास्तथा । स्वाध्यायहानिरप्येवं, स्पष्टं सूत्रेऽपि सूत्रितम् ॥६॥
प्रह्लादलाघवे सौख्यं, जिनाज्ञापरिपालनम् । फलं साक्षादिदं दृष्टं, जिनोक्तोपधिधारिणाम् ॥७॥
धर्मोपकरणं धार्य, धर्मोपकरणत्वतः । अन्यथा तदशक्यत्वात्, तेनैव तस्य सम्भवात् ॥८॥
वस्तुतस्तु न मे किञ्चिद्, ज्ञातृमात्रत्वतो मम । यदि परिग्रहो मे तन् मज्जडत्वप्रसङ्गतः ॥९॥
१. व्यवहारसूत्रभाष्ये ॥५/११५-११९॥ २. समयसारे ॥२०८॥