________________
४०
श्रामण्योपनिषद् ॥अकिञ्चनता ॥ आकिञ्चन्यमृते यस्य, न किञ्चन बभूव तम् । भरतचक्रिणं वन्दे, क्षपकश्रेणिरोहणम् ॥१॥
मूर्छा परिग्रहः प्रोक्तः, स च देहादिकाऽऽश्रयः । अतोऽनाग्न्येन तद्व्याप्तिः, नाभवन्न भविष्यति ॥२॥
ग्रामनगरसङ्घादे-र्वसतिवपुषोस्तथा । ममत्वे त्वपरित्यक्ते, वस्त्रत्यागेन को गुणः ? ॥३॥
ऊचे प्राभृतकारोऽपि', नग्नो दुर्लभबोधिकः । नग्नो भ्राम्यति संसारे, जिनभावनवर्जितः ॥४॥
अतो मूर्छा परित्याज्या, योऽप्यधिकस्य सञ्चयः । सोऽप्येतेन प्रतिक्रुष्ट-स्तस्य मूर्छाफलत्वतः ॥५॥
१. भावप्राभृते ॥६८॥