________________
श्रामण्योपनिषद्
ध्यानाम्भसा तु जीवस्य, सदा यच् छौचकारणम् । मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥७॥
३८
यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् । पुनर्याति न मालिन्यं, सोऽन्तरात्मा परः शुचिः २ ॥८ ॥
सद्ध्यानान्मनसः शौचं, वाक्शौचं सत्यसंश्रयात् । कायशौचं सदाचारात्, श्रमणः स्यात् परः शुचिः ॥ ९ ॥
( मालिनी )
उपकरणविशुद्धिर्वर्जितैरुद्गमाद्यै
स्तपस इह विशुद्धिः सात्त्विकेनाऽऽदृतेन । व्रतविसरविशुद्धिर्भावनाशुद्धताभिः,
परिणमतु मयीदं, भावशौचं सदाऽपि ॥ १० ॥
१. अष्टकप्रकरणे ॥२-६॥ २. ज्ञानसारे ॥ १४-५ ॥