________________
३०
श्रामण्योपनिषद् विश्वविश्वपरित्राण-प्रत्यल ! नतवत्सल ! । अप्रतिमप्रतिम ! स्तात्, संयम ! ते नमो नमः ॥९॥
(वसन्ततिलका) त्रैलोक्यशेखरपदाप्तपदोऽहमिन्द्रः,
सर्वार्थसिद्धसुरलोकसुरोऽपि शश्वत् । यस्य स्मरत्यभिलषत्यनिशं यमेव,
यत्नेन तं वृणुत संयममेनमेव ॥१०॥
॥सत्यम् ॥ सत्यमेव समुक्तं यै-र्जातेऽपि प्राणसंशये । कालिकाचार्यपादेभ्य-स्तेभ्यो नमो नमो नमः ॥१॥
यत् स्यात् सद्भ्यो हितं तत् स्यात्,
सत्यमित्यनुशासनम् । सत्यमेवोपसेव्यं यज्, जयते सत्यमेव हि ॥२॥