________________
श्रामण्योपनिषद्
विषयेभ्यः स्वरादिभ्यः, श्रोत्रादीन्द्रियसंहृतिः । परिहारश्च रागादेः, संयम एष उच्यते ॥३॥
२८
क्रोधस्य कृन्तनं मान-मर्दनं लोभलुम्पनम् । मायाकायाग्निसंस्कारः, संयम एष उच्यते ॥४॥
मनोदण्डप्रमाथो यो, यद्वाचोदण्डदण्डनम् । देहदण्डौर्ध्वदेहिकं, संयम एष उच्यते ॥५॥
इत्थं सप्तदशभेदः, संयमः सोऽयमुच्यते । यत्र ज्ञाते न किं ज्ञातं ? दृष्टे दृष्टं श्रुते श्रुतम् ॥६॥
वाग्मिवाग्भिः कृतं कूट- तन्त्रवितर्कणैः कृतम् । संयमः सेव्यतामेक, एतावज्जिनशासनम् ॥७॥
विद्यतेऽविषयो विद्या - मन्त्रतन्त्रजुषां भुवि । संयमशालिनां विश्वे - विषयस्तु न विद्यते ॥८ ॥