________________
२२
श्रामण्योपनिषद् ममत्वं नरकं साक्षात्, साक्षात् सिद्धिः समार्द्रता । मुक्त्यनुशासनं ह्येत-दन्यत्त्वस्यैव विस्तरः ॥९॥ .
(उपजाति) यः कर्मयोगस्य तु विप्रयोगः,
सा द्रव्यमुक्तिर्न च सास्ति मुख्या । मुख्या उदाहुः परिशुद्धनीत्या, ___ कषायमुक्तिः किल मुक्तिरेव ॥१०॥
॥तपः॥
तपोमहोमहादित्यं, श्रीवीरेण प्रशंसितम् । धन्यं धन्यानगारं तं, सर्वार्थसिद्धिदं स्तुवे ॥१॥
मुख्यं तपोऽन्तरं प्रोक्तं, बाह्यं तु तस्य पोषकम् । प्रत्येकं षड्विधं तत्र, प्रथमं बाह्यमुच्यते ॥२॥