________________
२०
श्रामण्योपनिषद् लोभगर्त्तः प्रतिप्राणि, यस्मिन् विश्वमणूपमम् । कस्य वा कियदायाति, वृथैव लोभधारिता ॥४॥
लोभखानिरगाधेयं, विश्वविश्वे महाद्भुता । या तां पूरयितुं क्षिप्तैः, पूरणैरेव खन्यते ॥५॥
लुप्यते यो न लोभेन, रमणीनामगोचरः । विषयाविषयो यश्च, तस्य मुक्ति स्वयंवरा ॥६॥
मुक्तिरस्ति दुरापेति, क आह ? सुलभैव सा । कषायान् विषयान् मुञ्च, मुक्तिरस्ति करे स्थिता ॥७॥
ममत्वमरणे जाते, समत्वे सुप्रतिष्ठिते । यत्र यत्र मनो याति, तत्र तत्र समाधयः ॥८॥