________________
श्रामण्योपनिषद् अनार्जवानुभावेन, ह्यनालोचाप्रतिक्रमा । लक्षभवं भवं स्वीयं, रुक्मी साध्वी चकार हा ॥४॥
अनार्जवं महत्कष्ट-मालोच्यान्यापदेशतः । लक्ष्मणाऽऽर्या भवं भ्रान्ता, तप्त्वाऽपि दुस्तपं तपः ।५।
तज्ज्ञानं तच्च विज्ञानं, तत्तपः स च संयमः । सर्वमेकपदे भ्रष्टं, दम्भदम्भोलिखण्डितम् ॥६॥
अनार्जवस्य लेशोऽपि, स्त्रीत्वानर्थनिबन्धनम् । बभूव मल्लिनाथस्य, ह्यधिकस्य तु का कथा ? ॥७॥
बाह्यं फलं प्रतीत्योक्तं, माया मित्रविनाशिनी । आन्तरं तु फलं वित्त, माया स्वात्मविनाशिनी ॥८॥
विमृशत्यनृजुहँ हो !, विश्वं विवञ्चितं मया । संविदन्ति विदोऽनेन, स्वात्मा संवञ्चितोऽनया ॥९॥
१. दशवैकालिके ॥८-३८॥