________________
१२
श्रामण्योपनिषद् दुर्विनीतः स मिथ्यात्व-संयुतस्तां गतिं व्रजेत् । महापातकिनो यस्यां, व्रजन्ति ऋषिघातकाः ॥५॥
॥ युग्मम् ॥ मार्दवं विश्वविश्वे क्व ? क्व गुरौ च कठोरता ?। मार्दवं मोक्षदं सद्यो, भवदा च कठोरता ॥६॥
क्लेश एव कठोराणां, मृदोः सम्पत्समागमः । दन्ताः स्युः क्लेशभागिनो, रसना रसलालिता ॥७॥
कठोराणामसाध्यानि, मृदुः करोति हेलया । सलिलासलिलं भेत्ति, शिलोच्चयोच्चयानपि ॥८॥
यस्य चित्तं द्रवीभूतं, मार्दवेनाखिलागिषु ।। तस्य ज्ञानं च मोक्षं च, केवलैर्न तपःश्रुतैः ॥९॥
१. चन्द्रवेध्यके ॥ ९ ॥