________________
१०४
श्रामण्योपनिषद् शालीय-शुद्ध-सरलामल-पुण्य-पुजैः
रम्यैरखण्ड-शशलाञ्छन-रूप-तुल्यैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥४॥ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय अक्षयपदप्राप्तये अक्षतं नि. स्वाहा । मन्दार-कुन्द-बकुलोत्पल-पारिजातैः ... पुष्पैः सुगन्ध-सुरभीकृतमूर्ध्वलोकैः ।। सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥५॥ ॐ हीम् उत्तमक्षमादिदशधर्मांगाय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा । अत्युत्तमैः षड्-रसादिक-सद्यजातैर्
नैवेद्यकैश्च परितोषित-भव्य-लोकैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥६॥ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा । दीपैर्विनाशित-तमोत्कररुद्ध-नेत्रैः
कर्पूर-वर्ति-ज्वलितोज्ज्वल-भाजनस्थैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥७॥ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ।