________________
१२८
पञ्चसूत्रोपनिषद्
अथ साधुधर्माभिलाषिणामपरस्तु परोपतापो दुर्घटः, किन्तु सम्भवति कथञ्चिदप्रतिबुद्धानां पितॄणां मनसि वियोगजन्यसन्तापः । तमपनेतुं बोधयितव्यौ पितरौ । कथञ्चिदप्रतिबुद्धानित्येतज्ज्ञापयति यन्न महासत्त्वस्य प्राय एतावप्रतिबुद्धौ भवतः । साधुधर्मपरिभावनाचर्यां महागुणांश्च तस्यावलोक्य प्रतिबुध्येते तन्मातापितराविति ।
महासत्त्वो हि स यस्य दिव्यभोगावलोकनेऽपि न भवति हर्षोन्मादः । नानिष्टप्रसङ्गैरप्युत्पद्यते ग्लानिभावः । उपशान्ता भवन्त्यस्य कषायाः । आवर्ज्येते एतद्गुणविभूत्या मातापितरौ, चकिताश्चासेते । एवं तत्त्वानुसारित्वाख्यगुणोऽपि महान् । येन सर्वत्रान्वेषयति वस्तुतत्त्वम् । न च बहुमन्यते वराकजीवैर्विधीयमानामतत्त्वकथामेषः । प्रतिपदमेव प्रादुर्भूयतेऽस्य तत्त्वपक्षपातः । एवञ्च प्रतिबोधमन्तरेणैवोदेत्यस्य पित्रोरपि चारित्राभिलाषः, जम्बूकुमारमातापितृवत् । तथापि यद्यप्रतिबुद्धौ मातापितरौ कर्मवैषम्यात् तदा तौ प्रतिबोद्धव्यौ, यथा - यदस्माभिरुत्तमायुर्लक्षणो निधिरवाप्तः, स ऐहिकपारलौकिकोभयप्रयोजनसिद्ध्या सफलीकर्त्तव्यः । एतज्जीवनं तु सुकृति - नामेव फलेग्रहिर्भवति । तच्च सुकृतं सर्वजीवगणाभयदानप्रदानेन परलोक उत्तमस्थानस्थिति सुसंस्कारसन्दोहानुगमानुगुणानुष्ठानाच्च सम्भवति । द्वयमप्येतद्सम्भवति शुद्धचारित्र - धर्माऽऽराधनादेव । तदनाराधनायामपि मृत्युस्त्ववश्यम्भावी । चारित्रधर्मोरीकाराभावेनैव वैफल्यं गतान्यनन्तानि जीवितानि । अत एतदङ्गीकारेण सफलीकार्यमिदं जीवितम् ।