________________
प्रशमरति
80
एभिर्भावै : स्थानं गतिमिन्द्रियसंपद : सुखं दुःखम्। संप्राप्नोतीत्यात्मा सोऽष्टविकल्प : समासेन ॥१९८॥
द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति। चारित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य ॥१९९॥
जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा । योग :-सयोगिनां पुनरुपयोग : सर्वजीवानाम्॥२००॥
ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम्। चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम्।।२०१॥