________________
प्रशमरति
70
प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्ग: । स्वाध्याय इति तप : पट् प्रकारमभ्यन्तरं भवति ॥१७६।।
दिव्यात्कामरतिसुखात्त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१७७।।
अध्यात्मविदो मूच्र्छा परिग्रहं वर्णयन्ति निश्चयत:। तस्माद्वैराग्येप्सोराकिञ्चन्यं परो धर्म : ॥१७८।।