________________
प्रशमरति
64
मानुष्यकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ । श्रद्धाकथकवणेषु सत्स्वपि सुदुर्लभा बोधि : ॥१६२॥
तां दुर्लभां भवशतैर्लब्ध्वाप्यतिदुर्लभा पुनर्विरति : । मोहाद्रागात्कापथविलोकनाद्गौरववशाच्च ॥१६३॥
तत्प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगम्य : । इन्द्रियकषायगौरवपरीषहसपत्नविधुरेण ॥१६४॥
तस्मात्परीषहेन्द्रियगौरवगणनायकान्कषायरिपून् । क्षान्तिबलमार्दवार्जवसंतोषै : साधयेद्धीर : ॥१६५।।