________________
प्रशमरति
इष्टजनसंप्रयोगर्द्धिविषयसुखसंपदस्तथारोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ।। १५१ ।।
जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके || १५२ ||
एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मन: कार्यम् || १५३ ||
58