________________
52
प्रशमरति देहो नासाधनको लोकाधीनानि साधनान्यस्य । सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीय : ॥१३२॥
दोषेणानुपकारी भवति परो येन येन विद्विष्ट :। स्वयमपि तद्दोषपदं सदा प्रयत्नेन परिहार्यम्॥१३३॥
पिण्डैषणानिरुक्त : कल्प्याकल्प्यस्य यो विधि : सूत्रे । ग्रहणोपभोगनियतस्य तेन नैवामयभयं स्यात् ॥१३४॥
व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम्। पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥१३५॥
गुणवदमूर्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन । दारूपमधृतिना भवति कल्प्यमास्वाद्यमास्वाद्यम्॥१३६।।