________________
प्रशमरति
माषतुपोपाख्यानं श्रुतपर्यायप्ररूपणां चैव । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुने: ॥ ९५॥
संपर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम्। लब्ध्वा सर्वमदहरं तेनैव मद: कथं कार्य : ॥ ९६ ॥
एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्माद : स्वहृदयस्य संसारवृद्धिश्व ||१७||
जात्यादिमदोन्मत्त: पिशाचवद्भवति दुःखितश्चेह । जात्यांदिहीनतां परभवे च नि:संशयं लभते । । ९८ ।।
38