________________
30
प्रशमरति केचित्सातर्द्धिरसातिगौरवात्सांप्रतेक्षिण : पुरुषा : । मोहात्समुद्रवायसवदामिषपरा विनश्यन्ति ॥७६।।
ते जात्यहेतुदृष्टान्तसिद्धमविरुद्धमजरमभयकरम्। सर्वज्ञवाग्रसायनमुपनीतं नाभिनन्दन्ति ॥७॥
यद्वत्कश्चित् क्षीरं मधुशर्करया सुसंस्कृतं हृद्यम्। पित्तार्दितेन्द्रियत्वाद्वितथमतिर्मन्यते कुटुकम् ॥७॥
तद्वन्निश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम्। तथ्यमवमन्यमाना रागद्वेषोदयोवृत्ता : ॥९॥
जातिकुलरूपबललाभबुद्धिवालभ्यकश्रुतमदान्धा :। क्लीबा : परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥८॥