________________
प्रशमरत
विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चास्रवनिरोध : ॥७२॥
संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्ति : क्रियानिवृत्तेरयोगित्वम् ॥७३॥
योगनिरोधाद्भवसंततिक्षय : संततिक्षयान्मोक्ष: । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥७४॥
विनयव्यपेतमनसो गुरुविद्वत्साधुपरिभवनशीला: । त्रुटिमात्रविषयसङ्गादजरामरवन्निरुद्विग्ना: ॥ ७५ ॥
28