________________
22
प्रशमरति कर्ममय : संसार : संसारनिमित्तकं पुनर्दु:खम्। तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम्॥५७।।
एतद्दोषमहासंचयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्वेष्टयितुं निरवशेषम् ॥५८॥
अस्य तु मूलनिबन्धं ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतप :स्वाध्यायध्यानयुक्तस्य ॥५९॥
प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धोञ्छमात्रयात्राधिकारस्य ॥६॥
जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणकृतप्रतिज्ञस्य ॥१॥
परिणाममपूर्वमुपागतस्य शुभभावनाध्यवसितस्य। अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यत : समये ॥६॥
वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमते : शुभेयमुत्पद्यते चिन्ता ॥३॥