________________
20
प्रशमरति कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥५०॥
अन्येषां यो विषय : स्वाभिप्रायेण भवति तुष्टिकर: । स्वमतिविकल्पाभिरतास्तमेव भूयो द्विषन्त्यन्ये ॥५१॥
तानेवार्थान्द्विषतस्तानेवार्थान्प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किंचिदिष्टं वा ॥५२॥
रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य। नान्य : स्वल्पोऽपि गुणोऽस्ति य : परत्रेह च श्रेयान् ॥५३॥
यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम्। रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥५४॥
स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम्। रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥५५॥
एवं रागद्वेषौ मोहो मिथ्यात्वमविरतिश्चैव। । एभि : प्रमादयोगानुगै: समादीयते कर्म ॥५६॥