________________
16
प्रशमरति कर्मोदयाद्भवगतिर्भवगतिर्भवगतिमूला शरीरनिर्वृत्ति: । देहादिन्द्रियविषया विषयनिमित्ते च सुखदु:खे ॥३९॥
दु:खद्विट्सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोष :।। यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥४०॥
कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवायै : । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥४१॥
गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्त : । रूपावेशितचक्षु: शलभ इव विपद्यते विवश: ॥४२॥
स्नानाङ्गरागवर्त्तिकवर्णकधूपाधिवासपटवासै : । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥४३॥