________________
14
प्रशमरति पञ्चनवव्यष्टाविंशतिकश्चतु :षट्कसप्तगुणभेदः । द्वि :पञ्चभेद इति सप्तनवतिभेदास्तथोत्तरत : ॥३५॥
प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्या :। तीव्रो मन्दो मध्य इति भवति बन्धोदयविशेष : ॥३६॥
तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात्। स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥३७॥
ता : कृष्णनीलकापोततैजसीपद्मशुक्लनामान : । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्य : ॥३८॥