________________
प्रशमरति तद्भक्तिबलापिर्तया मयाप्यविमलाल्पया स्वमतिशक्त्या। प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम्॥७॥
यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथापि मय्यनुकम्पैकरसैरनुग्राह्यम्॥८॥
कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वा ह्यन्यत्। दोषमलिनेऽपि सन्तो यद्गुणसारग्रहणदक्षा : ॥९॥
सद्भि: सुपरिगृहीतं यत्किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिण : प्रकाशते पूर्णचन्द्रस्थ :॥१०॥
बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे। तद्वत्सजनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥
ये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिता:। तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥
यद्वद्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥१३॥