________________
प्रशमरति
126
प्रशमरतिनित्यतृषितो जिनगुरुसाधुजनवन्दनाभिरत : । संलेखनां च काले योगेनाराध्य सुविशुद्धाम्॥३०६॥
प्राप्त:कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥३०७।।
नरलोकमेत्य सर्वगुणसंपदं दुर्लभां पुनर्लब्ध्वा । शुद्ध: स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात्॥३०८॥