________________
प्रशमरति
दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ २७३॥
संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुन: षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ २७४ ॥
औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्ट: । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।। २७५ ।।
कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ २७६ ॥
110